नामसंगिती स्तोत्र पाठ

 आर्य मञ्जुश्री नाम संगीतिः ।। नमो मञ्जुश्री कुमारभूताय ।।

अथ वज्रधरः श्रीमान् दुर्दान्तदमकः परः ।
त्रैलोक्यविजयी वीरो गुह्यराट् कुलिशेश्वरः।। १ ।।

विबुद्धपुण्डरीकाक्षः प्रोत्फुल्लकमलाननः ।
प्रोल्लालयन् वज्रवरं स्वकरेण मुहुर्मुहुः ।। २ ।।

भृकुटीतरङ्ग प्रमुखैरनन्तैर्वज्रपाणिभिः ।
दुर्दान्तदमकैर्वीरैवीरबिभत्सरुपिभिः ।। ३ ।।

उल्लालयद्विः स्वकरैः प्रस्फुरद् वज्रकोटिभिः ।
प्रज्ञोपायमहाकरुणाजगदर्थकरैः परैः ।। ४ ।।

हृष्टतुष्टाशयैर्मुदितैः क्रोधविग्रहरुपिभिः ।
बुद्धकृत्यकरैर्नाथैः सार्द्ध प्रणतविग्रहैः ।। ५ ।।

प्रणम्य नाथं सम्बुद्धं भगवन्तं तथागतम् ।
कृताञ्जलिपुटो भुत्वा इदमाह स्थितोऽग्रतः ।। ६ ।।

मद्धिताय ममार्थाय अनुकम्पाय मे विभो ।
मायाजालाभिसम्बोधेर्यथालाभि भवाम्यहम् ।। ७ ।।

अज्ञानपङ्कमग्नानां क्लेशब्याकुल चेतसाम् ।
हिताय सर्वसत्वानामनुत्तरफलाप्तये ।। ८ ।।

प्रकाशयतु सम्बुद्धो भगवान् शास्ता जगद्गुरुः ।
महासमयतत्त्वज्ञ इन्द्रियाशय वित्परः ।। ९ ।।

भगवन् ज्ञानकायस्य महोष्णीषस्य गीष्पतेः ।
मञ्जुश्रीज्ञानसत्त्वस्य ज्ञानमूर्तेः स्वयम्भुवः ।। १० ।।

गम्भीरार्थामुदारार्थां महार्थामसमां शिवाम् ।
आदि मध्यान्तकल्याणीं नामसंगीतिमुत्तमाम् ।। ११ ।।

याऽतितैर्भाषिता बुद्धैर्भाषिष्यन्ते हृानागताः ।
प्रत्युत्पन्नाश्च सम्बुद्धा यां भाषन्ते पुनः पुनः ।। १२ ।।

मायाजाले महातन्त्रे या चास्मिन् सम्प्रगीयते ।
महावज्रधरैहृष्टैरमेयैर्मन्त्रधारिभिः ।। १३ ।।

अहञ्चैनां धारयिष्याम्यानिर्याणाद् दृढाशयः ।
यथा भवाम्यहं नाथ सर्वसम्बुद्ध गुह्यधृक् ।।१४ ।।

प्रकाशयिष्ये सत्वानां यथाशयविशेषतः ।
अशेषक्लेशनाशाय अशेषाज्ञानहानये ।। १५ ।।

एवमध्येष्य गुह्येन्द्रो वज्रपाणिस्तथागतम् ।
कृताञ्जलिपुटो भूत्वा प्रव्हकायःस्थितोऽग्रतः ।। १६ ।।

इति अध्येषणा ज्ञानगाथा षोडशः ।। ० ।।

प्रतिवचनम्

अथ शाक्यमुनिर्भगवान् सम्बुद्धो द्विपदोत्तमः ।
निर्णमय्यायतांस्फितां स्वजिव्हांस्वमुखाच्छुभाम् ।। १ ।।

स्मितंसंदर्श्य लोकानामपायत्रयशोधनम् ।
त्रिलोकाभासकरणं चतुर्मारारिशासनम् ।। २ ।।

त्रिलोकमापूरयन्त्या ब्राह्म मधुरया गिरा ।
प्रत्यभाषत गुह्येन्द्रं वज्रपाणिं महाबलम् ।। ३ ।।

साधु वज्रधर श्रीमान् साधु ते वज्रपाणये ।
यस्त्वं जगद्धितार्थाय महाकरुणयान्वितः ।। ४ ।।

महार्थां नामसंगीतिं पवित्रामघनाशिनीम् ।
मञ्जुश्रीज्ञानकायस्य मत्तः श्रोतुं समुद्यतः ।। ५ ।।

तत्साधु देशयाम्येषः अहं ते गुह्यकाधिपः ।
श्रृणु त्वमेकाग्रमनास्तत्साधु भगवन्निति ।। ६ ।।

इति प्रतिवचन ज्ञान गाथाः षट् ।।




षट्कुलावलोकनम्

अथ शाक्यमुनिर्भगवान् सकलं मन्त्रकुलं महत् ।
मन्त्नविद्याधरकुलं व्यवलोक्य कुलत्रयम् ।। १ ।।

लोकलोकोत्तरकुलं लोकालोककुलं महत् ।
महामुद्राकुलं चाग्य्रं महोष्णीषकुलं महत् ।। २ ।।

इति षट्कुलावलोकनज्ञानगाथे द्वे।।



मायाजालाभिसम्बोधिः

इमां षण्मन्त्रराजानं संयुक्तामद्वयो दयाम् ।
अनुत्पादधर्मिणीं गाथां भाषते स्म गिरांपतेः ।।१।।

अ आ इ ई उ ऊ ए ऐ ओ औ अं अः स्थितो हृदि ।
ज्ञानमूर्तिरहं बुद्धो बुद्धानां त्र्यध्ववर्तिनाम् ।। २ ।।

ॐ वज्रतीक्ष्णदुःखच्छेदप्रज्ञाज्ञानमूर्तये ।
ज्ञानकायवागीश्वर अरपचनाय ते नमः ।। ३ ।।

इति मायाजालाभिसम्वोधिक्रमगाथास्तिस्रः ।।

वज्रधातुमण्डलम्

तद्यथा भगवान् बुद्धः सम्बुद्धोऽकारसम्भवः ।
अकारः सर्ववर्णाग्य्रो महार्थः परमाक्षरः ।। १ ।।

महाप्राणो हृानुत्पादो वागुदाहारवर्जितः ।
सर्वाभिलापहेत्वग्य्रः सर्ववाक्सुप्रभास्वरः ।। २ ।।


महामहमहारागः सर्वसत्त्वरतिङ्कर ।
महामहमहाद्वेषः सर्वक्लेश महारिपुः ।। ३ ।

महामहमहामोहो मुढधीर्मोहसुदनः ।
महामहमहाक्रोधो महाक्रोधरिपूर्महान् ।। ४ ।।

महामहमहालोभः सर्वलोभनिषूदनः ।
महाकामो महासौख्यो महामोदो महारतिः ।। ५ ।।

महारुपो महाकायो महावर्णो महावपुः ।
महानामा महोदारो महाविपुलमण्डलः ।। ६ ।।

महाप्रज्ञायुधधरो महाक्लेशाङ्कुशोऽग्रणीः ।
महायशा महाकीर्तिर्महाज्योतिर्महाद्युतिः ।। ७ ।।

महामायाधरो विद्वान् महामायार्थसाधकः ।
महामायारतिरतो महामायेन्द्रजालिकः ।। ८ ।।

महादानपतिः श्रेष्ठो महाशीलधरोऽग्रणी ।
महाक्षान्तिधरो धीरो महावीर्यपराक्रमः ।। ९ ।।

महाध्यानसमाधिष्थो महाप्रज्ञाशरीरधृक ।
महाबलो महोपायः प्रणिधिर्ज्ञानसागरः ।। १० ।।


महामैत्रीमयोऽमेयो महाकारुणिकोऽग्रधीः ।
महाप्रज्ञो महाधीमान् महोपायो महाकृतिः ।। ११ ।।


महाऋद्धिबलोपेतो महावेगो महाजवः ।
महर्द्धिको महेशाख्यो महाबलपराक्रमः ।। १२ ।।

महाभवाद्रिसंभेत्ता महावज्रधरो घनः ।
महाक्रूरो महारौद्रो महाभयभयङ्कर ।। १३ ।।

महाविद्योत्तमो नाथो महामन्त्रोत्तमो गुरुः ।
महायाननयारुढो महायानयोत्तमः ।। १४ ।।

इति वज्रधातुमण्डलज्ञानगाथाश्चतुर्दश ।। ० ।।

सुविशुद्धधर्मधातुज्ञानम् ।

महावैरोचनो बुद्धो महामौनी महामुनिः । 
महामन्त्रनयोद्भुतो महामन्त्रनयात्मकः ।। १ ।।

दशपारमिताप्राप्तो दशपारमिताश्रयः । 
दशपारमिताशुद्धिर्दशपारमितानयः ।। २ ।।

दशभूमीश्वरो नाथो दशभूमिप्रतिष्ठितः । 
दशज्ञानविशुद्धात्मा दशज्ञानविशुद्धधृक् ।। ३ ।।

दशाकारो दशार्थार्थो मुनीन्द्रो दशवलो विभुः ।
अशेषविश्वार्थकरो दशाकारवशी महान् ।।४।।

अनादिर्निष्प्रपञ्चात्मा शुद्धात्मा तथतात्मकः । 
भूतवादी यथावादी तथाकारी अनन्यवाक् ।। ५ ।।

अद्वयो
द्वयवादी च भूतकोटीव्यवस्थितः । 
नैरात्म्यसिंहनिर्णादीः कुतीर्थ्यमृगभीकरः ।। ६ ।।

सर्वत्रगोमोघगतिस्तथागतमनोजवः । 
जिनो जितारिर्विजयी चक्रवर्ती महावलः ।। ७ ।।

गणमुख्यो गणाचार्यो गणेशो गणपतिर्वशी । 
महानुभावो धौरेयोनन्यनेयो महानयः ।। ८ ।।

वागीशो वाक्पतिर्वाग्भी वाचस्पतिरनन्तगीः । 
सत्यवाक् सत्यवादी च चतुःसत्योपदेशक ।। ९ ।।

अवैवर्तिको ह्यनागामी खड्गः प्रत्येकनायकः । 
नानानिर्याणनिर्यातो महाभूतैककारणः ।। १० ।।

अर्हन् क्षीणाश्रवो  भिक्षुर्वीतरागो जितेन्द्रियः । 
क्षेमप्राप्तोभयप्राप्तः शीतीभूतो ह्यनाविलः ।।११।।

विद्याचरणसम्पन्नः सुगतो लोकवित्परः । 
निर्ममो निरहंकारः सत्यद्वयनयस्थितः ।। १२ ।।

संसारपारकोटिस्थः कृतकृत्यः स्थलस्थितः । 
कैवल्यज्ञाननिष्ठ्यूतः प्रज्ञाशस्त्रो विदारणः ।।१३ ।।

सद्धर्मो धर्मराड् भास्वान् लोकालोककरः परः । 
धर्मेश्वरो धर्मराजः श्रेयोमार्गोपदेशकः ।। १४ ।।

सिद्धार्थः सिद्धसंकल्पः सर्वसंकल्पवर्जितः । 
निर्विकल्पोक्षयो धातुः धर्मधातुः परोव्ययः ।। १५ ।।

पुण्यवान् पुण्यसंभारो ज्ञानं ज्ञानाकरं महत् । 
ज्ञानवान् सदसज्ज्ञानी सम्भारद्वयसम्भृतः ।।१६ ।।

शाश्वतो विश्वराड् योगी ध्यानं ध्येयो धियांपतिः । 
प्रत्यात्मवेद्यो ह्यचलः परमाद्यस्त्रिकायधृक ।। १७ ।।

पञ्चकायात्मको बुद्धः पञ्चज्ञानात्मको विभुः । 
पञ्चबुद्धात्ममुकुटः पञ्चचक्षुरसङ्गधृक् ।। १८ ।।

जनकः सर्वबुद्धानां बुद्धपुत्रः परो वरः । 
प्रज्ञाभवोद्भवो योनिर्धर्मयोनिर्भवान्तकृत् ।। १९ ।।

घनैकसारो वज्रात्मा सद्योजातो जगत्पतिः । 
गगनोद्भवः स्वयम्भूः प्रज्ञाज्ञानानलो महान् ।। २० ।।

वैरोचनो महादीप्तिर्ज्ञानज्योतिर्विरोचनः ।
जगत्प्रदीपो ज्ञानोल्को महातेजाः प्रभास्वरः ।। २१ ।।

विद्याराजोग्रमन्त्रेशो मन्त्रराजो महार्थकृत् । 
महोष्णीषोऽद्भुतोष्णीषो विश्वदर्शी वियत्पतिः।। २२ ।।

सर्वबुद्धात्मभावाग्य्रो जगदानन्दलोचनः । 
विश्वरुपी विधाता च पूज्यो मान्यो महाऋषिः ।।२३ ।।

कुलत्रयधरो मन्त्री महासमयमन्त्रधृक् । 

रत्नत्रयधरः श्रेष्ठस्त्रियानोत्तमदेशकः ।। २४ ।।

अमोघपाशो विजयी वज्रपाशो महाग्रहः । 

वज्राङ्कुशो महापाशः वज्रभैरवभीकर ।। २५ ।।

इति सुविशुद्धधर्मधातुज्ञानगाथाः पादोनपञ्चविंशतिः ।।


आदर्श ज्ञानम्

क्रोधराट् षण्मुखो भीमः षण्नेत्रः षड्भुजो बलीः । 
द्रंष्ट्राकरालः कङ्कालो हलाहल शताननः ।।१ ।।

यमान्तको विध्नराजो वज्रवेगो भयङ्करः । 
विद्युष्टवज्रो हृद्वज्रो मायावज्रो महोदरः ।। २ ।।

कुलिशेशो वज्रयोनिर्वज्रमण्डो नभोपमः । 
अचलैकजटाटोपो गजचर्मपटार्द्रधृक् ।। ३ ।।

हाहाकारो महाघोरो हीहीकारो भयानकः । 
अट्टहासो महाहासो वज्रहासो महारवः ।। ४ ।।

वज्रसत्वो महासत्वो वज्रराजो महासुखः । 
वज्रचण्डो महामोदो वज्रहुंकारहुंकृतिः ।। ५ ।।

वज्रबाणायुधधरो वज्रखड्गो निकृन्तनः । 
विश्ववज्रधरो वज्री एकवज्री रणञ्जहः ।। ६ ।।

वज्रज्वालाकरालाक्षो वज्रज्वालाशिरोरुहः । 
वज्रवेशो महावेशः शताक्षो वज्रलोचनः ।। ७ ।।

वज्ररोमाङ्कुरतनुर्वज्ररोमैकविग्रहः । 
वज्रकोटिनखारम्भो वज्रसारघनच्छविः ।। ८ ।।

वज्रमालाधरः श्रीमान् वज्राभरणभूषितः । 
हाहाट्टहासो निर्घोषो वज्रघोषः षडक्षरः ।। ९ ।।

मञ्जुघोषो महानादस्त्रैलोक्यैकरवो महान् । 
आकाशधातुपर्यन्तघोषो घोषवतां वरः ।। १० ।।

इत्यादर्शज्ञानगाथाः पादेन सार्धं दश ।

प्रत्यवेक्षणा ज्ञानम्

तथताभूतनैरात्म्यभूतकोटिनरक्षरः । 
शून्यतावादिवृषभो गम्भीरोदारगर्जनः ।। १ ।।

धर्मशङ्खो महाशब्दो धर्मगण्डी महारणः । 

अप्रतिष्ठितनिर्वाणो दशदिग्धर्मदुन्दुभिः ।। २ ।।

अरुपो रुपवानग्य्रो नानारुपो मनोमयः । 
सर्वरुपावभासश्रीरशेषप्रतिबिम्बधृक् ।। ३ ।।

अप्रधृष्यो महेशाख्यस्त्रैधातुकमहेश्वरः । 
समुच्छ्रितार्यमार्गस्थो धर्मकेतुर्महोदयः ।। ४ ।।

त्रैलोक्यैककुमाराङ्गः  स्थविरो वृद्धः प्रजापतिः । 

द्वात्रिंशल्लक्षणधरः कान्तस्त्रैलोक्यसुन्दरः ।। ५ ।।

लोकज्ञानगुणाचार्यो लोकाचार्यो विशारदः । 

नाथस्त्राता त्रिलोकाप्तः शरणं तायी निरूत्तरः ।। ६ ।।

गगनाभोगसंभोगः सर्वज्ञज्ञानसागरः । 

अविद्याण्डकोषसंभेत्ता भवपंजरदारणः ।। ७ ।।

शमिताशेषसंक्लेशः संसारार्णवपारगः । 

ज्ञानाभिषेकमकुटः सम्यक्संबुद्धभूषणः ।। ८ ।।

त्रिदुःखदुःखशमन स्त्र्यध्वा
न्तो स्त्रिमुक्तिगः । 
सर्वावरणनिर्मुक्त आकाशमताङ्गतः ।। ९ ।।

सर्वक्लेशमलातीतत्य्रध्वानध्वगतिं गतः । 
सर्वसत्वमहानागो गुणशेखरशेखरः ।। १० ।।

सर्वोपधिविनिर्मुक्तो ब्योमवर्त्मनि सुस्थितः । 

महाचिन्तामणिधरः सर्वरत्नोत्तमो विभुः ।। ११ ।।

महाकल्पतरुः स्फीतो महाभद्रघटोत्तमः । 

सर्वसत्वार्थकृत्कर्ता हितैषी सत्त्ववत्सलः ।। १२ ।।

शुभाशुभज्ञः कालज्ञः समयज्ञः समयी विभुः । 

सत्त्वेन्द्रियज्ञो वेलज्ञो विमुक्तित्रयकोविदः ।। १३ ।।

गुणी गुणज्ञो धर्मज्ञः प्रशस्तो मङ्गलोदयः । 

सर्वमङ्गलमाङ्गल्यः कीर्तिर्लक्ष्मीर्यशः शुभः ।। १४ ।।

महोत्सवो महाश्वासो महानन्दो महारतिः । 

सत्कारः सत्कृतिर्भूतिः प्रमोदः श्रीर्यशस्पतिः ।। १५ ।।

वरण्यो वरदः श्रैष्ठः शरण्य शरणोत्तमः । 

महाभयारिः प्रवरो निःशेषभयनाशनः ।। १६ ।।

शिखी शिखण्डी जटिलो जटी मौण्डी किरीटिमान्ः । 

पञ्चाननः पञ्चशिखः पञ्चचीरकशेखरः ।। १७ ।।

महाव्रतधरो मौञ्जी ब्रह्मचारी व्रतोत्तमः । 

महातपास्तपोनिष्ठः स्नातको गौतमोग्रणीः ।। १८ ।।

ब्रह्मविद् ब्राह्मणी ब्रह्मा ब्रह्मनिर्वाणमाप्तवान्ः ।
मुक्तिर्मोक्षो विमोक्षाङ्गो विमुक्तिः शान्तता शिवः ।।  १९ ।।

निर्वाणं निर्वृतिः शान्तिः श्रेयो निर्याणमन्तकः । 
सुखदुःखान्तकृन्निष्ठा वैराग्यमुपधिक्षयः ।। २० ।।

अजयो
नुपमोऽव्यक्तो निराभासो निरञ्जनः ।
निष्कलः सर्वगो व्यापी सूक्ष्मो बीजमनाश्रवः ।। २१ ।।

अरजो विरजो विमलो वान्तदोषो निरामयः । 
सुप्रबुद्धो विबुद्धात्मा सर्वज्ञः सर्ववित्परः ।। २२ ।।

विज्ञानधर्मतातीतो ज्ञानमद्वयरूपधृक् ।
निर्विकल्पो निराभोगस्त्रध्वसंबुद्धकार्यकृत् ।। २३ ।

अनादिनिधनो बुद्ध आदिबुद्धो निरन्वयः । 
ज्ञानैकचक्षुरमलो ज्ञानमूर्तिस्तथागतः ।। २४ ।

वागीश्वरो महावादी वादिराड् वादिपुङ्गवः । 

वदतां वरो वरिष्ठो वादिसिंहोऽपराजितः ।। २५ ।

समन्तदर्शी प्रामोद्यस्तेजोमाली सुदर्शनः । 

श्रीवत्सस्सुप्रभो दीप्तिर्भाभासुकरद्युतिः ।। २६ ।

महाभिषग्वरः श्रेष्ठः शल्यहर्ता निरुत्तर । 

अशेषभेषज्यतरुः वलेषब्याधिमहारिपुः ।।२७ ।

त्रैलोक्यतिलकः कान्तः श्रीमान्न्क्षत्रमण्डलः । 

दर्षादग्व्योमपर्यन्तो धर्मध्वजो महोच्छ्य्रः ।। २८ ।

जगच्छत्रैकविपुलो मैत्रीकरुणमण्डलः । 

पद्मनृत्येश्वरः श्रीमान् रत्नच्छत्रो महाविभुः ।। २९ ।

सर्वबुद्धमहाराजः सर्वबुद्धात्मभावधृक । 

सर्वबुद्धमहायोगः सर्वबुद्धैकशासनः ।। ३० ।

वज्र्रत्नाभिषेकश्रीः सर्वरत्नाधिपेश्वर । 
सर्वलोकेश्वरपतिः सर्ववज्रधराधिपः ।। ३१ ।

सर्वबुद्धमहाचित्तः सर्वबुद्धमनोगतिः । 

सर्वबुद्धमहाकायः सर्वबुद्धसरस्वती ।। ३२ ।

वज्रसूर्योमहालोको वज्रेन्दुविमलप्रभः । 
विरागादिमहारागो विश्ववर्णाेज्ज्वलप्रभः ।। ३३ ।

सम्बुद्धवज्रपर्यङ्को बुद्धसंगीति धर्मधृक् । 
बुद्धपद्मोद्भवः श्रीमान् सर्वज्ञज्ञानकोषधृक् ।। ३४।

विश्वमायाधरो राजा बुद्धविद्याद्यरो महान् । 
वज्रतीक्ष्णो महाखड्गो विशुद्धः परमाक्षरः ।। ३५ ।

दुःखच्छेदमहायानो वज्रधर्ममहायुधः । 
जिनजिग्वज्रगाम्भीर्यो वज्रबुद्धिर्यथार्थवित् ।। ३६ ।

सर्वपारमितापूरी सर्वभूमिविभूषणः । 
विशुद्धधर्मनैरात्म्यः सम्यग्ज्ञानेन्दुह्त्प्रभः ।। ३७ ।

मायाजालमहोद्योगः सर्वतन्त्राधिपः परः । 
अशेषवज्र्रपर्य»को निःशेषज्ञानकायधृक् ।। ३८ ।

समन्तभद्रस्सुमति क्षितिगर्भोजगद्धृतिः । 
सर्वबुद्धमहागर्भो विश्वनिर्माणचक्रधृक् ।। ३९ ।

सर्वभावस्वभावाग्य्र सर्वभावस्वभावधृक । 
अनुत्पादधर्मा विश्वार्थः सर्वधर्मस्वभावधृक् ।।  ४० ।

एकक्षणमहाप्राज्ञः सर्वधर्मावबोधधृक् 

सर्वधर्माभिसमयो भूतान्तमुनीरग्रधीः ।।  ४१ ।

स्तिमितः सुप्रसन्नात्मा सम्यक्संबुद्धबोधिधृक् । 

प्रत्यक्षः सर्वबुद्धानां ज्ञानार्चिः सुप्रभास्वरः ।।   ४२ ।

ईति प्रत्यवेक्षणाज्ञानगाथाः द्वाचत्वारिंशत् ।।

समताज्ञानम्

इष्टार्थसाधकः परः सर्वापायविशोधकः । 
सर्वसत्वोत्तमो नाथः सर्वसत्वप्रमोचकः ।।  १ ।

क्लेशसंग्रामशूरैकः अज्ञानरिपुदर्पहाः । 
धीश्रृङ्गारधरः श्रीमान् वीरबीभत्सरुपधृक ।।  २ ।

बाहुदण्डशताक्षेपः पदनिक्षेपनर्त्तनः ।
श्रीमच्छतभुजाभोगगगनाभोगनर्तनः ।।  ३ ।

एकपादतलाक्रान्तो महीमण्डतले स्थितः । 
ब्रह्माण्डशिखराक्रान्तः पादाङ्गुष्ठनखे स्थितः ।।  ४ ।

एकार्थोद्वयधर्मार्थः परमार्थोविनश्वरः । 
नानाविज्ञप्तिरुपार्थश्चित्तविज्ञानसन्ततिः ।।  ५ ।

अशेषभावार्थरतिः शून्यतारतिरग्रधी । 
भवरागद्यतीतश्च भवत्रयमहारतिः ।।  ६ ।

शुद्धशुभ्राभ्रधवलः शरच्चन्द्रांशुसुप्रभः । 
वालर्कमण्डलच्छायो महारागनखप्रभः ।।  ७ ।

इन्द्रनीलाग्रसच्चीरो महानीलकचाग्रधृक् । 
महामणिमयूरवश्रीर्बुद्धनिर्वाणभूषणः ।।  ८ ।

लोकधातुशताकम्पी ऋद्धिपादमहाक्रमः ।

महास्मृतिधरस्तत्वश्चतुःस्मृतिसमाधिराट् ।।  ९ ।

बोध्यङ्गकुसुमामोदस्तथागतगुणोदधिः । 

अष्टाङ्गमार्गनयवित् सम्यक्संबुद्धमार्गवित् ।।  १० ।

सर्वसत्वमहासङ्गो निःसङ्गो गगनोपमः । 
सर्वसत्वमनोजातः सर्वसत्वमनोजवः ।।  ११ ।

सर्वसत्वेन्द्रियार्थज्ञः सर्वसत्वमनोहरः । 
पञ्चस्कन्धार्थत्वज्ञः पञ्चस्कन्धविशुद्धधृक् ।।  १२ ।

सर्वनिर्याणकोटिस्ठः सर्वनिर्याणकोविदः।
सर्वनिर्याणमार्गस्थः सर्वनिर्याणदेशकः ।।  १३ ।

द्वादशाङ्गभवोत्खातो द्वादशाकारशुद्धधृक् । 
चतुःसत्यनयाकारः अष्टज्ञानावबोधधृक् ।।  १४।

द्वादशाकारसत्यार्थः षोडशाकारतत्त्ववित् । 

विंशत्याकारसंबोधिर्विबुद्धः सर्ववित्परः ।।  १५ ।

अमेयबुद्धनिर्माणकायकोटिविभावकः । 
सर्वक्षणाभिसमयः सर्वचित्तक्षणार्थवित् ।।  १६ ।

नानायाननयोपायजगदर्थविभावकः । 

यानत्रितयनिर्यात एकयानफले स्थितः ।।  १७ ।

क्लेशधातुविशुद्धात्मा कर्मधातुक्षयङ्करः । 

ओघोदधिसमुत्तीर्णो योगकान्तारनिःसृतः ।।  १८ ।

क्लेशोपक्लेशसंक्लेशसुप्रहीणसवासनः ।

प्रज्ञोपायमहाकरुणा अमोघजगदर्थकृत् ।।  १९।

सर्वसंज्ञाप्रहीणार्थो विज्ञानार्थो निरोधधृक् । 

सर्वसत्त्वमनोविषयः सर्वसत्त्वमनोगतिः ।।  २० ।

सर्वसत्वमनो
न्तस्थः तच्चित्तसमताङ्गतः । 
सर्वसत्त्वमनोल्हादी सर्वसत्त्वमनोरतिः ।।  २१ ।

सिद्धान्तो विभ्रमापेतः सर्वभ्रान्ति विवर्जितः । 
निःसंदिग्धमतिस्त्र्यर्थः सर्वार्थस्त्य्रिगुणात्मकः ।। २२ ।

पञ्चस्कन्धार्थस्त्रिकालः सर्वक्षणविभावकः । 
एकक्षणाभिसंबुद्धः सर्वबुद्धस्वभावधृक् ।।  २३ ।

अनङ्गकाय कायाग्य्रः कायकोटिविभावकः । 
अशेषरुपसन्दर्शी रत्नकेतुर्महामणिः ।।  २४ ।
.
इति समताज्ञानगाथाश्चतुर्विंशतिः ।।

कृत्यानुष्ठानज्ञानम् 

सर्वसंबुद्धबोद्धव्यो बुद्धबोधिरनुत्तरः । 
अनक्षरो मन्त्रयोनिर्महामन्त्रकुलत्रयः ।।  १ 

सर्वमन्त्रार्थजनको महाबिन्दुरनक्षरः । 
पञ्चाक्षरो महाशून्यो बिन्दुशून्यः षडक्षरः ।।  २ 

सर्वाकारो निराकारः षोडशार्धार्धबिन्दुधृक् । 
अकलः कलनातीतश्चतुर्थध्यानकोटिधृक् ।।  ३ 

सर्वध्यानकलाभिज्ञः समाधिकुलगोत्रवित् । 
समाधिकाय कायाग्य्रः सर्वसंभोगकायरात् ।।  ४ 

निर्माणकायः कायाग्य्रो बुद्धनिर्माणवंशधृक् । 
दशदिग्विश्वनिर्माणो यथावज्जगदर्थकृत् ।।  ५ 

देवातिदेवो देवेन्द्रः सुरेन्द्रो दानवाधिपः । 
अमरेन्द्रः सुरगुरुः प्रथम प्रमथेश्वरः ।।  ६ 

उत्तीर्णभवकान्तारः एकशास्ता जगद्गुरुः । 
प्रख्यातदशदिग्लोको धर्मदानपतिर्महान् ।।  ७ 

मैत्रीसन्नाहसन्नद्धः करुणावर्मवर्मितः । 
प्रज्ञाखड्गो धनुर्बाणः क्लेशज्ञानरणञ्जहः ।।  ८ 

मारारिर्मारजिद्विरश्चतुर्मारभयान्तकृत् । 
सर्वमारचमूजेता संबुद्धो लोकनायकः ।।  ९ 

वन्द्यः पूज्यो
भिवाद्यश्च माननीयश्च नित्यशः । 
अर्चनीयतमो मान्यो नमस्यः परमो गुरुः ।।  १० 

त्रैलोक्यैकक्रमगतिर्व्योमपर्यन्तविक्रमः । 
त्रैविद्यः श्रोत्रियः पूतः षडभिज्ञः षडनुस्मृत्तिः ।।  ११ 

बोधिसत्त्वो  महासत्त्वो लोकातीतो महर्द्धिकः । 
प्रज्ञापारमितानिष्ठः प्रज्ञातत्त्वत्वमागतः ।।  १२ 

आत्मवित्परवित्सर्वः सर्वीयो ह्यग्रपुद्गलः । 
सर्वोपमामतिक्रान्तो ज्ञेयो ज्ञानाधिपः परः ।।  १३ 

धर्मदानपतिः श्रेष्ठश्चतुर्मुद्रार्थदेशकः । 
पर्युपास्यतमो जगतां निर्याणत्रययायिनाम् ।।  १४ 

परमार्थविशुद्धश्रीस्त्रैलोक्यसुभगो महान् । 
सर्वसम्पत्करः श्रीमान् मञ्जुश्रीः श्रीमतांवरः ।।  १५ 

इति कृत्यानुष्ठानज्ञानगाथाः पंचदश ।।


पञ्चतथागतस्तुतिः 

नमस्ते वरद वज्राग्य्र भूतकोटे नमोस्तु ते । 
नमस्ते शून्यतागर्भ बुद्धबोधे नमोस्तु ते ।।  १ 

बुद्धराग नमस्तेस्तु बुद्धकाम नमो नमः । 
बुद्धप्रीते नमस्तुभ्यं बुद्धमोद नमो नमः ।।  २ 

बुद्धस्मित नमस्तुभ्यं बुद्धहास नमो नमः । 
बुद्धवाच नमस्तुभ्यं बुद्धभाव नमो नमः ।।  ३ 

अभवोद्भव नमस्तुभ्यं नमस्ते बुद्धसम्भव । 

गगनोद्भव नमस्तुभ्यं नमस्ते ज्ञानसम्भवः ।।  ४ 

मायाजाल नमस्तुभ्यं नमस्ते बुद्धनाटक । 

नमस्ते सर्वसर्वेभ्यो ज्ञानकाय नमोस्तुते ।।  ५ 

इति पञ्चतथागतस्तुतिज्ञानगाथाः पञ्च ।।

मन्त्रविन्यासः 

ॐ सर्वधर्माभावस्वभावविशुद्धवज्र अ आ अं अः प्रकृतिपरिशुद्धाः सर्वधर्माः यदुत सर्वतथागतज्ञानकायस्य मञ्जुश्रीपरिशुद्धितामुपादायेति । अं आः सर्वतथागतहृदय हर हर ॐ हुं ह्रीं भगवन् ज्ञानमूर्तिवागीश्वरमहावाच सर्वधर्मगगनामल सुपरिशुद्धधर्मधातुज्ञानगर्भ आः ।

ईति मन्त्रविन्यासः ।

उपसंहार गाथा पञ्च

अथ वज्रधरः श्रीमान् हृष्टतुष्टः कृताञ्जलिः ।
प्रणम्य नाथं संबुद्धं भगवन्तं तथागतम् ।।  १ 

अन्यैश्च बहुभिर्नाथैर्गुह्येन्द्रैर्वज्रपाणिभिः । 
स सार्द्धं क्रोधराजानैः प्रोवाचोच्चैरिदं वचः ।। २ 

अनुमोदामहे नाथ साधु साधु सुभाषितम् । 
कृतोस्माकं महानर्थः सम्यक्सम्बोधिप्रापकः ।। ३ 

जगतश्चाप्यनाथस्य विमुक्तिफलकाङ्क्षिणः । 
श्रेयोमार्गो विशुद्धोयं मायाजालनयोदितः ।।  ४ 

गम्भीरोदारवैपुल्यो महार्थो जगदर्थकृत् । 
बुद्धानां विषयो ह्येषः सम्यक्संबुद्धभाषितः ।।  ५ 

इति भगवतो मंजुश्रीज्ञानसत्त्वस्य परमार्थ नामसङ्गीति भगवन्तथागतशाक्यमुनिभाषिता समाप्ता ।।

Comments

Popular posts from this blog

सद्धर्म चर्चा - २०७७ जेठ २२ गते - मारयात त्याकेगु उपाय